|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.164. अध्यायः 164
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण युद्धाय सेनानिर्यातनम् ॥ 1 ॥ धृष्टद्युम्नेन भीमादीनां दुर्योधनादिभिः सह द्वन्द्वयुद्धाय समादेशः ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-164-0(37550)
संजय उवाच। 5-164-0x(3864)
उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः।
सेनां नियापयामास धृष्टद्युम्नपुरोगमाम् ॥ 5-164-1(37551)
पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् ।
चतुर्विधबलां भीमामकम्पां पृथिवीमिव ॥ 5-164-2(37552)
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः ।
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥ 5-164-3(37553)
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः।
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत ॥ 5-164-4(37554)
यथाबलं यथोत्साहं रथिनः समुपादिशत् ।
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥ 5-164-5(37555)
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् ।
अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ॥ 5-164-6(37556)
सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत्।
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ॥ 5-164-7(37557)
सहदेवं शकुनये चेकितानं शलाय वै।
द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत् ॥ 5-164-8(37558)
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् ।
स समर्थं हि तं मेने पार्थादभ्यधिकं रणे ॥ 5-164-9(37559)
एवं विभज्य योधांस्तान्पृथक्व सह चैव ह ।
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥ 5-164-10(37560)
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः ।
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥ 5-164-11(37561)
यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत्।
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥ ॥ 5-164-12(37562)
इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-164-10 अंशं स्वकीयमिति शेषः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|